पाशुर ९
- Jayasri Thothathri
- Dec 24, 2018
- 3 min read
श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति।
प्रथमं ...वयम् ...एकेन भक्तेन ...सन्मार्गे...(advancing) अभिप्रवृत्तार्थं .... तस्य भक्तस्य प्राकृत सम्बन्धम् (relationship) अभिमन्तव्यम् (to be desired)। अतः एतां गोपिकां *मामान् मगले* (uncle's daughter) इति बन्धुभावेन आह्वयति। तस्याः जननीमपि *मामीर्* (aunty) इति आहूय.. तस्याः पुत्रीं उत्थाप्य... प्रार्थयति।
*मामान् मगले मणिक्कदवं ताल् तिरवाय्* (कृपया गृहस्य द्वारं उद्घाटनं करोतु) इति प्रार्थयति।
कृष्णः तु प्रीत्या ... अस्माकं हृदयैव (हृदये एव) सर्वदा ...अस्ति। परन्तु ... *द्वारद्वयं* ... अस्मभ्यं ... भगवत् दर्शनं प्राप्तुं ... स्तम्भनं कुरुतः।
प्रथमं द्वारं *अहङ्कारः*
देहात्मभिमानम्
भगवान् अस्माकं प्रियसंवासार्थं (company) कुतूहलेन आगच्छन् समये...वयम् अस्माकं देहचिन्तनैव स्मः चेत् भगवान् दुःखेन गच्छति।
अस्माकं देहमेव आत्मा इति चिन्तनं विना *भगवानस्य देहमेव अस्माकम् आत्मा* इति ज्ञानेन अहङ्कार द्वारस्य उद्घाटनं भवति।
रामायणे ... ब्रम्हादि देवाः ..श्रीरामं *जगत्सर्वं शरीरं ते* इति उक्तवन्तः।
श्रीकृष्णः... तस्य विश्वरूपेण ...सर्वं तस्य शरीरमेव ... इति प्रमाणितवान्।
द्वितीयं *ममकारः*
यदि अस्माकं चिन्तनं
भगवान् स्वामि। अहं तस्य सम्पत्ति।
अथवा
अहं स्वामि। भगवान् मम सम्पत्ति।
इति अस्ति तर्हि.. भगवान् अतीव सन्तोषम् अनुभवति।
अन्यथा
अस्माकं भगवत् सम्बन्धं विस्मृत्य.... अहमेव स्वामि..सम्सारिक वस्तूनि एव मम सम्पत्ति ... इति चिन्तनं ...ममकार द्वारम्।
आचार्यस्य कटाक्षेनैव ... ममकारद्वारस्य उद्घाटनं भवति।
एतस्मिन् पाशुरे ... प्रातःकालस्य सूचनं नास्ति। गोपिकायाः स्वप्नकोष्ठस्य वर्णनम् अस्ति।
शुद्ध रत्नेन अलङ्कृत पर्यङ्कस्य परितः ... दीपैः...
उष्णं विना दीपप्रकाशं अस्ति।
निर्धुम (smokekess) धूपगन्धमपि अस्ति।
सदृश सुन्दरे पर्यङ्के सुप्तं गोपिकां उत्थाप्य ... श्री गोदा देवी .. भगवन्नामं भजितुम् आह्वयति।
श्री वेदव्यासः ...ब्रह्मसूत्रे... आत्मनः विशेषगुणान् प्रति ...द्वयोः सूत्रयोः... *आत्मन् ... नित्यम् ... सूक्ष्मः अणुः...ज्ञानमयम्* ... इति प्रमाणितवान्
सूत्राः
१) गुणात्वा आलोकवतु।
२) व्यतिरेहो गन्धवतु तथा हि दर्शयति। (गन्धेन ... दूपस्य निरूपणम्)
एताभ्यां सूत्राभ्याम् ... आत्मनः गुणः ... सूर्यः / दीपः ..इव ... स्वयं प्रकाशयति ... अन्यान् वस्तूनपि प्रकाशयति .. इति स्पष्टेन ज्ञातम्।
श्री रामानुजाच्चार्या... तस्य श्रीभाष्ये (ब्रह्मसूत्रस्य भाष्यम्)...आत्मन्...स्वगुणेन..ज्ञानेन....सकलं देहं व्याप्य...अवस्थितः ..इति उक्तवान्। द्युमणि (सूर्यः) इव।
यद्यपि आत्मन् सूक्ष्मः... तथापि...तस्य धर्मभूतज्ञानेन.. संपूर्णे शरीरे ...आनन्दं पीडां च अनुभवति।
आतमनः ज्ञानेन ... इन्द्रियाणि ... सकलम् अनुभवन्ति।
इन्द्रियेण आत्मानं प्रति ज्ञातुं न शक्यते ..अतः अव्यक्तम्.. परन्तु ... (कामक्रोदलोभं विना) हृदयेन ... किञ्चित् व्यक्तम् (ज्ञातुं शक्यते)
गुरुणा ..आगमं (शास्त्रेण अतीन्द्रिय विषयं) ज्ञातव्यम् .. ततः परम् .. बुद्ध्या चिन्तयित्वा ... आत्मविषयं ज्ञातुं शक्यते।
आत्मन् स्वयं विज्ञानम् (ज्ञानस्वरूपम्)... विज्ञाता (ज्ञानगुणकः) च..... दीपः इव...
_न हि विज्ञातुः विज्ञातेः ... विबरिलोभो ... हि विद्यते_ ऐतेन सूत्रेण ... *आत्मनः (Atma's) ज्ञानम्* ... इति स्पष्टम् दृश्यते।
_तत्गुण सारत्वात् तु तत् व्यपतेशः प्राज्ञयवतु_... एतेन सूत्रेण ... आत्मन् संपूर्णता.. ज्ञानेन व्यापकम्। अतः *आत्मन् स्वयं ज्ञानम्* इत्यपि दृश्यते।
आत्मनः ज्ञानं.. हृदयात् ...नेत्रं (दर्शनम्).. वाचं (पदानि words).. जिह्वां (रुचि taste), घ्राणं (अभिजिघ्रति smell) समारोहति।
प्रज्ञया वाचं समारुह्य...वाचा सर्वानि नामानि अवाप्नोति।
प्रज्ञया घ्राणं समारुह्य ... घ्राणेन सर्वान् गन्धान् अवाप्नोति।
मद्ये .. किमपि विग्नं (प्रकाशं विना दृष्टुं न शक्यते) अस्ति चेत्... धर्मभूत ज्ञानम् न प्रसरति..
अतः
१) वस्तु (दीपः /दूपः / ज्ञानम्)
२) प्रकाशः (धर्मभूतज्ञानम्)
३) ग्रहणम् (परमात्म .. जीवात्म ज्ञानम्) त्रयमपि आवश्यकम्
श्री गोदा देवी ...आत्म विषय ज्ञानम् .. इदृश दृष्टान्तेन ...प्रदर्शयति।
दीपः ... प्रकाशः... गोपिकाभिः ग्रहणम्।
दूपः ... गन्धम् ... गोपिकाभिः ग्रहणम्।
जीवात्मन् .. परमात्मानं प्रति ज्ञातुम् इच्छया ..प्रयत्नं करोति चेत्... भगवान् बहु आनन्देन... इतोपि ज्ञानं.. तस्मै दत्वा ... स्वयं प्रदर्शयति।
एषा गोपिका एतस्सर्वं ज्ञातवती। अतः श्री गोदा देवी तस्याः प्रकृति संबंधं (आत्म बन्धुः) इच्छति।
गोदा देवी एतेन पाशुरेण ... सहस्रासहस्र भगवन्नाम सङ्कीर्तनं करणीयम् इति सूचयति।
श्री गोदा देवी ... एतस्याः गोपिकायाः मातरं आहूय ... *भवत्याः पुत्री मूका बालिका वा?* भगवन्नामं वक्तुं न शक्नोति वा *बधिरा बालिका वा?* "अस्माकं भगवन्नाम सङ्कीर्तनं श्रोतुमपि न शक्नोति वा? *आलस्यम् वा?* आलस्येन अस्माभिः सह ... नाम सङ्कीर्तनं कर्तुं न इच्छति वा? अथवा *किमपि इन्द्रजाल कारणेन मूर्छति वा?* इति पृच्छति।
एतैः प्रष्णैः .. इन्द्रियाणाम् प्रयोजनम् भगवत् भागवत कैंकर्यमेव इति सूचयति।
इन्द्रजालमिव ...लोकविषयस्य बन्धम् ... सन्मार्गारोहणे महाविग्नं । सामान्य विषये इच्छां त्यक्त्वा ... सन्मार्गे गमनीयम्।
विष्णोः नामानि सहस्रमेव इति न। "देवो नाम सहस्रवान्" इति उत्तम वाक्यम्। विष्णुसहस्रनाम स्तोत्रे ... एकैकं नामं भगवानस्य एकैकं गुणं प्रदर्शयति। प्रति गुणाय एकैकं सहस्रनामम् वक्तव्यम् इति सूचयितुं ... श्री गोदा देवी ... *मामायन्...मादवन्...वैकुन्दन् एन्रु एन्रु (इत्यादि) नामं पलवुं (बहूनि नामानि) नविन्रेलोरम्पावाय्* इति उपदिशति।
भगवत् तत्वम् ...मुख्यशः *परत्वं... श्रीयपतित्वं...सौलप्यम्*
इत्युच्यते।
*परत्व* गुणाः ... तस्य महानुभावत्वम् प्रदर्शयन्ति। तस्य महत्वं ज्ञात्वा ... तेन एव अस्माकं रक्षणं साध्यम् .... तस्मै कृत शरणागतेन सम्सार सागरात् विमोचनमपि लभ्यते ... इति महाविश्वासम् आगमिष्यति। *वैकुन्द नामम्* श्वैवैकुण्ठे स्थित *नारायणः* इति तस्य महत्वं प्रदर्शयति। *परात्परः* (देवानां देवः ... सर्व श्रेष्ठः) *पद्मनाभः* (सृष्टिकर्ता) *जनार्धनः* (यः जीवात्मानं सम्सार सागरात् विमोचयति) *जगन्नाथः* इत्यादि नामानि... तस्य परत्व गुणं प्रदर्शयन्ति।
*श्रीयपतित्वम्* प्रदर्शित नामाः ... भगवानस्य परत्वं द्रष्ट्वा ... वयं तस्य समीपं गन्तुं शङ्का (hesitation) न आवश्यकम् ...जगन्माता.. श्रीलक्ष्मी देवी ...
तस्याः शिशुजनान् अस्मान् .. परमात्मने सङ्गमितुं पुरुशकारं करोति .... इति अस्मभ्यं आश्वासनम् (hope) ददति।
जगन्माता ... परमात्मने .... _सर्वे आवयोः शिशुजनाः खलु!!अतः कृपया तेषां दोषान् क्षम्य .. अनुग्रहं करोतु_ ... इति मात्रुवात्सल्येन ... प्रशंसां (recommendation) कुर्वन्ती अस्ति। सा अस्मभ्यं _सदृशं भक्तवत्सलाय श्रीमन्नारायणाय शरणागतं कृत्वा ... सन्मार्गे गच्छतु_ इति उपदिशति।
*श्रीमन्नारायणः* *मादवः* *श्रीदरः* इत्यादि नामानि श्रीयपतित्वं प्रदर्शयन्ति।
*सौलप्य नामाः* भक्तवत्सलः भगवान् तु तस्य भक्ताय किमपि कर्तुं सिद्धः। *दामोदरः... पाण्डव तूतः...गोविन्दः* इत्यादि नामाः तस्य एतस्सवभावं प्रदर्शयन्ति। *भगवानस्य ... परत्वं द्रष्ट्वा भीत्या न ... सौलप्यं द्रष्ट्वा प्रीत्या भक्ति करणीयम्* इत्यपि एतानि नामानि सूचयन्ति।
परत्वं..सौलप्यम् द्वयमपि ... लक्ष्मी संबंधेन एव .. अतः श्रीलक्ष्मीमातां प्रतमं वन्दित्वा अनन्तरं श्रीमन्नारायणं वन्दनीयम्।
एतेन पाशुरेण ... _आत्मं प्रति वेदान्त विषयाः_ _इन्द्रिय प्रयोजनम्_ _भगवत् तत्वम्_ _बहुविधानि नामानि_... सर्वं सूचयति।
Comments