समस्याः
स्वागतम् ।
एकदा कश्चित् गुरुकुले आचार्यः छात्रानां एका समस्या अपृच्छत् ।
एकः धनकस्य चत्वारः पुत्राः । ज्येष्ठः कृते अधिक प्रियम् । तस्य ७७,००० / रुप्या अन्य त्रयः पुत्रानां प्रति ११,०००/- दत्तवान् (३३,००० /- आगत्य ).।
ज्येष्ठः किम् प्राप्तवान् ??
उत्तरं तु सरलमेव । तदापि प्रेशयतु ..।
समस्या...... Continuation..
सर्वे छात्राः तक्षनेन ४४,००० /-..इति उक्तवन्तः..किन्तु महेशःनाम छात्रः तूष्नीम् आसीत् ।। अन्य छात्राः तस्य परिहासं कृतवन्तः ।
"महेशः..किमर्थं मौनम् " इति आचार्यः अप्रृच्छत् ।
हे गुरो ..ज्येष्ठः अहङ्कारं प्राप्तवान्...तस्य जनकः पापं च..।..आचार्यः.. आश्चर्येन..बहु सन्तोषः..सत्यं च..किन्तु त्वं कथं ज्ञातवान्..इति अपि वदतु..।
गूरो भवान् ज्येष्ठः ""किम् "" प्राप्तवान् इति अप्रृच्छत्।..''कति" इति न.. तदा सूक्ष्मता अस्ति इति ज्ञातम् । अधिक धनात् अहङ्कारं.. भेदपक्ष्यात् पापम् इति निश्चितम् ।
त्वं एव बुद्धिमान् इति आचार्यः अनुग्रहं कृतवान्। ।।
-- Guruji
निर्वहणकौशालम्
एकः जनकः तस्य पुत्रेभ्यः १७ ऊष्ट्रान् संपत्ति रूपेण त्यक्त्वा
दिवङ्गतः।
जनकस्य मरणानन्तरं सर्वे पुत्रा: तस्य सङ्कल्पपत्रम् अपठन्।
तस्मिन् १७ ऊष्ट्रेषु ज्येष्ठ: १/२ भागं, मध्यमः १/३ भागं तथा कनिष्ठ: १/९ भागं स्वीकर्तुम् आदिष्टम्।
तथैव विभक्तुम् असमर्थेषु पुत्रेषु कलहम् अभवत्। अतः ते सर्वे एकं पण्डितसमीपम् अगच्छन्।
सः अपि तेषां समस्यां क्षमापूर्वेण शृत्वा एकम् उपायम् अकरोत्।
स्वस्य एकम् ऊष्ट्रम् आनीय तै: सह तेषां स्थानम् अगच्छत्।
तत्र स्वस्य ऊष्ट्रम् अपि तेषाम् ऊष्ट्रैः सह संस्थाप्य विभक्तुम्
आरब्धम् अकरोत्। अधुना ऊष्ट्रानां सकलं १८ अभवत्।
तस्य अर्धं (१८ × १/२ = ९) ९ ऊष्ट्रान् ज्येष्ठाय, मध्यमाय (१८ × १/३ = ६) ६ ऊष्ट्रान्, तथा कनिष्ठाय २ ऊष्ट्रौ (१८ × १/९ = २)
भागी कृत्य दत्वा, स्वस्य एकं ऊष्ट्रम् अपि प्रत्यानीय स्वस्थानम् अगच्छत्।
सर्वे सन्तुष्टा: अभवन्।
-- Smt. Baghyalakshmi
.jpg)
एषा घटिका अध:पतनात् द्विधा विभक्ता।
लघुखण्डाया: सङ्कलनं ३१, तथा बृहत: ३०।
कथं एषा घटिका विभक्ता? इति प्रश्नम्।
स्मरणीयं यत् द्विधा एव विभक्ता।
-- Smt. Bhagyalakshmi
.jpg)
.jpg)
अनयो: चित्रयोः पञ्च भेदाः सन्तिl ते के इति वदन्तुl
-- Smt. Lalitha Vijayeendran
द्वौ जनकौ द्वौ पुत्रौ च मिलित्वा उपाहारमन्दिरं गत्वा एकैक पुरुषः एकैक दोसां अखादत्। एका दोसायाः मूल्यम् २० रुप्यकाणि। परन्तु विक्रयपत्रे ६० रुप्यकाणि एव इति आसीत्। किमर्थं ६०?
पिता ,पुत्र, प्रौत्र इति र् ३ ... एक दोसायाः मूल्यम् र् २०, ३x २० र्६०
पितुः पुत्रः, पुत्रस्य पुत्रः
- द्वौ पुत्रौ
पौत्रस्य पिता, पितुः पिता
- द्वौ जनकौ
-- Smt. Jayasri Thothathri