मनोरञ्जितम्
विचित्र घटना ...
द्वौ धनकौ परस्पर सम्भाषणं कुर्वन्तौ स्म।...
प्रथम धनकः.." मम सेवकः एव लोके अतीव मूर्खः "..इति वदति..
अन्य धनकः.." न...न..मम सेवकः..एव..।।अहं निश्चयेन..वदामि इति..
अस्तु...पश्यामः.. इति द्वयोः सेवकौ आह्वयन्तौ .
प्रथम धनकः तस्य सेवकं कृते..." शतंरूप्या ददामि...एकं नूतन ए१० कार्यानं आपनतः आनयतु '"....
सेवकः.." अस्तु महोदया.. इदानिम् एव गच्छामि.."..।
पश्यतु.. एषः कार्यानं किम्..तस्य मूल्यं किमपि न जानाति इति प्रथम धनिकः अन्ये वदति..
अन्य धनिकः..सत्यमेव..किन्तु. मम सेवकः कथम् इति पश्यतु..।सेवकं आह्वय वदति.." मम गृहं गत्वा तत्र अहम् अस्मि वा न वा इति द्रृष्ठवा आगच्छतु !!
सेवकः विनयेन .." इदानिम् एव गच्छामि इति उक्तवा वेगेन बहिः गच्छति..
भवतः सेवकः एव अतीव मूर्खः इति प्रथम धनिकः अङ्कीकरोति..
**********
बहिः द्वौ सेवकौ मिलितवन्तौ..
प्रथम..."मम स्वामि एव अतीव मूर्खः...अद्य रविवासरः..आपणाः सर्वे विरामः इति अपि न जानाति"
अन्य सेवकः.."" न न मम स्वामि इतोपि मूर्खः ।...हस्ते करदूरवाणि अस्ति ...एक वारं आह्वय गृहे अस्ति वा न वा इति ज्ञातुं शक्यते खलु !
*********
इदानिम् चिन्तयामि ..
एतत् लिखितुम् अहं ?? .. तत् पठितुं वयं सर्वे ????
-- Guruji --
एतत् लिखितुं भवान् हास्यरसिकः .... तत् पठितुं वयमपि।
-- Smt. Jayasri Thothathri
किन्चित् हसाम।
मित्रम् १ : २४ घण्टा: दूरदर्शनं द्रष्टव्यं,
वत्सरपूर्णम् द्रष्टव्यं, एकं
क्षणमपि व्यर्थं विना
द्रष्टव्यं, परन्तु नेत्रयो:
हानि: न भवितव्यम्।
एकम् उपायं कृपया वदतु।
मित्रम २ : तदा त्वम् विद्युत्शक्तिं विना
रिक्तावरणमेव द्रष्टव्यम्।
*****
विस्मरणशीलपुरुष: त्वं सदा मम
विस्मृतिं प्र
निन्दसि खलु?
अद्य मया
उपाहारपात्रं
कार्यालयात्
स्मरणभ्रंशं विना
आनीतम्।
तस्य पत्नी : अद्य भवान्
कार्यालयमेव न
गतवान्।
पुरुष: ??????
*****
निर्देशक: भवान् अस्मिन् दृश्ये बहु
उन्नतात् स्थानात्
प्लवनजलाशये
प्लवितव्यम्।
नट: तरणं मया न ज्ञातम्।
निर्देशक: चिन्तामास्तु। जलाशये अपि
जलं न भविष्यति।
नट : ?????
*****
न्यायाधीश: मया न विश्वसनीयम्।
त्वया एतत् ग्रन्थिचौरं
करणमिति।
अपराधि: सर्वे भवन्तमेव मुग्धा:
खलु। मां विश्वसन्ति इति
मन्ये।
न्यायाधीश: ?????
*****
भार्या : मयि भवते किं रोचते? मम
सुमुखं वा मम शुद्धमानसं
अथवा मम नम्रस्वभावं वा?
पति: तव एतत् प्रहसनमेव मह्यं
बहु रोचते।
भार्या : ?????
*****
एक: पुरुष: मार्गे किमर्थं भिण्डे: अग्रं
भित्वा गच्छन् असि?
अपर: पुरुष: आपणे क्रियते चेत्
आपणिकः निन्दति।
भित्वा विना क्रीणामि
चेत् भार्या निन्दति। किं
करवाणि? अत एव मार्गे
कृत्वा गृहं गच्छामि।
प्रथम: पुरुष: ?????
*****
भार्या पतिं सन्देशं प्रेषितवती।
तस्मिन् ... "मह्यं हीरहारं क्रेतुं मा विस्मरतु,
अपि च कमला तव कुशलं पृष्टवती" इति।
पतिः सा का कमला?
भार्या: न काचन। मम सन्देशं पठितं
इति निश्चीकर्तुमेव मया
कल्पिता महिला।
*****
भार्यासु सम्बाधगुणा:
अर्धमेव शृणोति
पादमेव अवगच्छति
शून्यमेव चिन्तयति
द्विगुणं प्रतिकरोति
१००% स्मरति।
️
पतिषु सम्बाधगुणा:
शून्यमेव शृणोति
सर्वम् अवगच्छति
द्विगुणं चिन्तयति
एकाकी प्रतिकरोति
०% स्मरति च।।
-- Smt. Bhagyalakshmi
️
भगवान् कः??
श्वशुरः ,जामाता मध्ये सम्भाषणम् .... अभ्युपगमस्यानन्तरम् श्वशुरः..." विवाहं तु निश्चितं..किन्तु भवान् कुत्रपि कार्यं न करोति इति श्रुतवान्.. सम्पाध्यं नो चेत् कथं ??"
जामाता..."" कार्यं भगवान् पश्यति खलु.."
श्.."एवं वा !! निवासितुं गृहं न निश्चितवान् ??"
जा..."चिन्तामास्तु तदपि भगवान् पश्यति "
श्..." अस्तु..बहिः चलनगमनार्थं स्कूटर्यानं..कार्यानं किमपि नास्ति ?? ""
जा..." एतानि लगु लगु व्यवस्था भगवान् शीग्रं पश्यति ..""
श्..." सर्वं भगवान्..भगवान्..इति वदति..भवान् तं भगवन्तं दृष्टवान् वा ??(कोपेन)
जा..." सत्यम् अहं दृष्ठवान् ..मम पुरतः तिष्ठन् भवान् एव मम भगवान्..""
-- Guruji
एकः ...'भो अस्मिन् दावन्तं काले ब्रह्ममुहूर्ते जनाः किं कुर्वन्ति??
एषः ...किन्चित् शोकेन..." किं वदामि..त्रिवारं आचमण्यं कुर्वन्ति ..""
सः ..""ओ..सन्ध्यावन्दनं त्रिवारं कुर्वन्ति वा..सन्तोशं खलु..किमर्थं दुःखेन वदन्ति?? "'
एषःः ..कुपित.."अत्र आचमण्यं काफीचायम् ..'"".।
स्वयमनुभवम्..
-- Guruji
अधिकारिः..'किमर्थं विलम्बः??'
कार्यकः..'घठि: एकः घन्ठः मन्दं चलति ''
अधि...'अस्तु ..किन्तु घण्ठद्वयं विलम्बः कथम्??'
कार्य..'' अहं घठि एकः घण्ठः वेगं चलति इति अचिन्तयम्''
-- Guruji