
कथा
भोजः कविश्च
भोजराज : अतीव कला रसिक :၊ कविताप्रियः ၊ अतः कवयः सदा तस्य सभां आगत्य स्वचातुर्यं 🤷♂प्रकटयन्ति स्म I स: अपि तेषां चमत्कारपूर्णां कवितां श्रुत्वा पारितोषिकं 🥈अयच्छत् I
एकस्मिन् दिने दौवारिक : न्य वेदयत् "कविः कश्चित् भवन्तं द्रष्टुम् आगतः " 🏻इति ၊ राजा "तं सादरं प्रवेशय " इति आज्ञापयत् ।
अथ दौवारिकेन प्रवेशितः कविः राजानं जयाशिषा🏻 वर्धयित्वा आसने उपविशति स्म I
राजा - विद्वन् । को विशेषः ?
कवि : - अद्यत्वे शिवः नास्ति ၊नामशेष : जात: ၊
रा- कथमेतत् ?" इश्वर : नास्ति इति कथम् ?
क - तस्यार्धम् नारायणेन हृतम् ၊
रा- कथमेतत्?
क - तस्य देहार्धं हृत्वा नारायणः "शंकरनारायण: " इति प्रसिद्ध :၊
रा - (सविस्मयं) अथ अवशिषृं देहार्धं ?
क - तत् गिरिजया हृतम्၊
रा-गङ्गा आसीत् किल तस्य शिरसि ?
क - सा दुःखिता समुद्रे पतिता၊
रा- चन्द्रकला कुत्र गता?
क - सा स्वर्गं (आकाशं ) गता ၊
रा - कष्टं कष्टं ၊ तस्य भूषणं वासुकिः कुत्र गतः?
क - स: पातालं प्रविष्ट:၊
रा- शंकरः सर्वज्ञ: किल? ' ज्ञानं महेश्वरात् इच्छेत् .' इति खलु जना वदन्ति ၊सर्वेषां ईश्वर : आसीत् ၊ इदानीं तत् ज्ञानं इश्वरत्वं च कुत्र गतम् ?
क - तदेव वक्तुं आगतः ၊ सर्वज्ञत्वं अधीश्वरत्वं च त्वां आगमत् ၊त्वां 🏻विना कः सर्वज्ञ:? को वा सवेश्वरः 🤴(प्रभुः)??
रा-कवे चमत्कारपूर्णां🏻🏻 ते वाणी၊ कथय तस्य भिक्षाटनं🥗 क्वगतम्? तत् न कदापि तस्मात् अपगच्छति၊
क - किं न पश्यसि? भिक्षाटनं मां आगमत् ၊
रा- साधु साधु ၊ कवितां कथय ၊ कविः कवितां अपठत् ၊
अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं
देवेत्थं जगतीतले पुरहराभावः समुन्मीलति ၊
गङ्गा सागरं अम्बरं शशिकला नागाधिपः क्ष्मातलं
सर्वज्ञत्वं अधीश्वरत्वं आगमत् त्वां, मां च भिक्षाटनं ॥
भोजराज : महता पारितोषिकेन तं अतोषयत्၊
---- Smt. Lalitha Vijayendran