स्वारस्य विषयाः
*सर्वासु विभक्तिषु कृष्णः*
कृष्णो रक्षतु नो जगत्त्रयगुरुः
कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः
कृष्णाय तस्मै नमः
कृष्णादेव समुत्थितं जगदिदं
कृष्णस्य दासोअस्म्यहं
कृष्णे तिष्ठति सर्वमेतदखिलं
हे कृष्ण रक्षस्व माम्।।
श्री नृसिंहावतारस्य सारम्.......
हिरण्यकश्यपः..आक्रोशेन गर्जितवान्..."" हरिः स्थंभे न दृश्यते ""
प्रहलादः विनयपूर्वं ""हरिः स्थंभेन दृश्यते "" ..
विभक्ति प्रयोगस्य विशेशम् !!!!
-- Guruji
रामो (रामः) राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाऽभिहता निशाचरचमूः रामाय तस्मै नमः।
रामात् नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम माम् उद्धर
-- Smt. Meena Arunachalam
.jpg)
.jpg)
एकदा एकः भक्तः परमाचार्यम् इत्थं अपृच्छत्।
किमर्थं वयं सर्वे काकाय एव महालयपक्षे अन्नम् उपस्थापयामः?
अस्माकं पूर्वजा: काकरूपान् स्वीकुर्वन्ति किम्?
किमर्थं ते क्षुद्रकाकरूपं गृह्णन्ति, अन्यत् किमपि श्रेष्ठपक्षिरूपम् न?
स महान् सुस्मितेन उत्तरं दत्तवान्।
वयं तमिल् भाषायां काकं कथं आह्वयाम:? का, का इति।
'का' इत्युक्ते तमिल् भाषायां त्रायस्व इति अर्थं किल?
वयं किमपि पक्षिणं तेन शब्देन एव आह्वयामः खलु?
मार्जारम्... "मियाव्", शुकम्... "की की" इति?
तदेव काकस्य श्रेष्ठता।
अन्नं संस्थाप्य वयं 'का का..' इति आहूय अस्माकं पूर्वजान् अस्मान् रक्षितुम् आह्वयामः।
काकः क्षुद्रपक्षी इति किं वदामः वयम्?
यतः सः सर्वत्र अस्ति अपि च सर्वं खादतीति किल? परन्तु स एकः सुन्दरः पक्षी इति मन्ये। किमर्थम् इत्युक्ते काकः ब्रह्ममुहूर्ते उत्तिष्ठति, का का इति रटति, भवन्तमपि उत्थापयति।
कुक्कुरः अपि प्रतिदिनं न भवन्तम् शब्दं कृत्वा उत्थापयति।
ब्रह्ममुहूर्तमेव देवपूजाय उत्तम:काल:।
अतः काकः एव अस्माकं उत्तमकालदर्शकः।
अपि च स एव पक्षिणां मध्ये इतरान् बन्धून् आहूय अन्नं स्वीकरोति। तत: मानवेभ्यः पाठयति यत् भोजनम् एकाकी न खादनीयम् इति।
सायं शयनात्पूर्वं 'का का' इति कृतज्ञतापूर्वेण रटित्वा देवं स्तौति।
ते यथा शास्त्रोक्तं सूर्यास्तमनानन्तरं न खादन्ति तथा वयमपि न कुर्मः।
अतः अहं काका: क्षुद्रा: इति न मन्ये।
अस्माकं पूर्वजा: एव काकरूपेण आगत्य अस्मै पाठयन्ति।
महालयपक्षे एव न, परन्तु प्रतिदिनमपि काकाय अन्नं स्थापयन्तु।
इतोपि सः अस्माकं अद्वैतमपी पाठयति। कथम्?
यदा त्वं तस्मै भोजनं दास्यसि, तदा सः सन्तोषं लब्ध्वा खादति। तत् दृष्ट्वा त्वं अपि सन्तोषम् अनुभवसि किल?
अतः युवामपि भगवन्तौ।
सर्वे जनाः एतत् व्याख्यानं शृत्वा सन्तोषेण गृहं प्रति गतवन्तः।
----Smt. Bhagyalakshmi