पाशुर ११
- Jayasri Thothathri
- Dec 26, 2018
- 3 min read
Updated: Apr 7, 2019
श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय सन्ड्रु सरुच्चय्युम् .. कुट्रम् ओन्रिल्लाद कोवलर्तं पर्कोडिये* ... वर्णाश्रम धर्मं आश्रितः कोवलः इति ... गोपिकायाः जनकं श्लागते।
कट्रुक्ट्करवै इत्युक्ते बाल्य कालैव क्षीरं दत्ताः धेनवः इति। यथा बालिका गोदा देवी .. भक्त प्रह्लातः ... बाल दुरुवः च बाल्य काले भगवदनुग्रहं प्राप्तवन्तः .. तथा एव ... भगवदनुग्रहेण... बाल्य धेनवः अपि क्षीरं दातुं शक्नुवन्ति। *भगवदनुग्रहम् अस्ति चेत् किमपि न असाध्यम्* इति सूचयति। श्रीकृष्ण स्पर्श कारणेन बाल्य धेनवः अपि क्षीरं ददति। अन्यार्थः ... बहवः गोवत्सैः (शिशवः) सह स्थिताः धेनवः इति।
गणन्गल् पल इत्युक्ते ... बहवः धेनवानां गणः एकः गणः... तेषां गणानां गणाः ... तादृशम् बहवः गणाः। सर्वेभ्यः गणेभ्यः एतस्मिन् कोवलः एव क्षीरं स्वीकरोति। कथं साध्यम्?
तस्य कार्यं तु... धेनुं स्पर्शित्वा .. श्रीकृष्णः ... क्षीरं पातुं प्रतीक्षां कुर्वन् अस्ति ... इति वक्तव्यम्। क्षणेन सर्वाः धेनवः बहु क्षीरं दातुं अरम्भं कुर्वन्ति। तदनन्तरम् .. तेन पात्राणां परिवर्तन कार्यमेव करणीयम्।
एतेन द्रष्टान्तेन ... श्री गोदा देवी अस्मभ्यम् ... आचार्याणां प्रभावं प्रति ... उपदिशति। आचार्याः अस्मभ्यं सर्व वेदान्तार्थं दातुं सर्वदा सिद्धाः एव। वयं तु तान् नमस्कृत्य .. भगवद्विषयं ज्ञातुं आगतवन्तः ... इति प्रार्थयामः चेत् ते मात्रुभावेन प्रीत्या .. सर्वार्थान् ददति ... यतः आचार्यः... भगवानस्य सम्पत्तिं (जीवात्मन्) तस्य कृते नेतुं .. इच्छया प्रतीक्षां कुर्वन् अस्ति। अतः *आचार्यः आश्ररयणमेव अस्माकं कर्तव्यम्*
एकः आचार्यः ... सन्कल्प रूप.. योग रूप ज्ञानेन .. परं पञ्चेन्द्रियात् ... (Beyond senses) बहवः शिष्येभ्यः बोधयितुं शक्नुवन्ति।
सिद्ध साधन सर्वेश्वरस्य कृपया ... कृतनिश्चयः कोवलः ... श्रीकृष्णस्य शत्रून् .. तेषां अधिष्ठानं गत्य ... तान् हन्तुं समर्थः इत्यपि कोवलस्य प्रभावं वदति। वर्णाश्रमानुष्ठाने ... युद्धक्रमे ...किञ्चिदपि दोषं विना कोवलः इति श्लागते।
*पर्कोडिये* इति नाम्ना ... सा लता इव सुन्दरवती ... *पुट्ररवल्कुल् पुनमयिले* इति नाम्ना .. सा कृशकटिं प्राप्तवती ..इति वदति। तस्याः कृशकटि ... तस्याः वैराग्यं प्रदर्शयति। कृष्णः यदा एतां गोपिकां (मयूरीं) पश्यति तदा ... मयूरः इव आनन्देन नृत्यति इत्यपि तस्याः वैभवं सूचयति।
कृष्ण भक्ताः ... कृष्णस्य सङ्ग्रहं विना .. किमपि कर्तुं इच्छन्ति चेत् .. कृष्णाय न रोचते। तस्य भक्ताः.. सर्वदा .. तेन सह एव क्रीडनं करणीयम् ... तस्य कृते एव भाषणं करणीयम् ... इति कृष्णस्य इच्छा।
गोपिकाः ....मृत्तिकया...गृह निर्मणं कृत्य .. क्रीडितुं इच्छन्ति। किन्तु यदा ताः गोपिकाः मृत्तिकक्रीडनं कर्तुं आरम्भं कुर्वन्ति .. तदा अनुक्षणं कृष्णः तत्र आगत्य ... पादेन .. तं गृहं स्पन्दनं कृत्वा हसति .. यतः कृष्णं विना .. गोपिकानाम् इदृशं क्रीडनं कृष्णाय न रोचते।
अतः गोपिकाः एकम् उपायम् कृतवत्यः। ताः मिलित्वा रात्रौ ... कोपि न ज्ञात्वा ... एतस्याः गोपिकायाः गृहम् आगत्य ... एतस्य गृहस्य प्रकोष्ठैव क्रीडनं कुर्वन्ती आसन्। तथापि कृष्णः तत्र आगत्य तेषां क्रीडनस्य स्तम्भनं कृत्य हसन् आसीत्।
श्रीगोदा देवी ... एतां घटनामेव ... एतस्मै गोपिकायै ... एवं स्मारयति। *निन् मुत्रं पुगुन्दु मुगिल्वण्णन् पेर् पाड* "भवत्याः एतस्मिन् प्रकोष्टैव वयं सर्वे ... तं कृष्णं प्रति गायितुं इदानीं मेलनं कुर्वन्ती स्मः।"
*चिट्रादे पेसादे सल्वप् पण्टाट्टि* "भवति कृष्ण सम्पत्ति प्राप्तवती खलु! तेन कारणेनैव ... अस्मान् न पश्यति ... किञ्चित् भाषणमपि न करोति" इति वदति।
*नी एट्रुक्कुरन्गुं पोरुलेलोरम्पावाय्* "भवति उपाय भावमेव स्मृतवती ... भागवत (भक्त) मेलनं विस्मृत्य ... किमर्थं एवं निद्रां कुर्वन्ती अस्ति?" इति तां पृच्छति।
*श्री गोदा देवी पुनः पुनः सत्संगस्य आवश्यकं प्रति उपदिशति*।
अनुभवम् -> प्रीति -> कैंकर्यम्
भगवदनुभवम् ... भगवद्विषयस्य श्रवणेन .. तस्य कृते प्रीतिभावं सिध्यति। तदनन्तरम् प्रीत्या कैंकर्यभावमपि सिध्यति।
अनुभवं प्रीत्यै कल्पताम् ... प्रीति कैङ्कर्याय कल्पताम्।
अनुभवेन .. प्रीतिं प्राप्य .. प्रीति भावेन कैंकर्य रुचि प्राप्तव्यम्।
त्रिविध सम्बन्धेन अस्मभ्यं सत्संगं साहाय्यं करोति।
*परमेश्वरस्य अस्माकं सम्बन्धं* तु शाश्वतः एव। परन्तु ... एकेन भक्तेनैव ... तत् सम्बन्ध ज्ञानम् *प्रत्यक्षी भवति*। श्री गोदा देवी अपि ... तस्याः जनकेनैव कृष्णभक्तिं प्राप्य तिरुप्पावै गीतां गीतवती।
परमेश्वरस्य सम्बन्धं ज्ञात्वा ... भगवन्तं अनुभवितुं समये अपि ... *सत्संगम् अस्माकं आनन्दं द्विगुणी करोति*। एकान्तानुभवम् अपेक्षया भक्तैः सह कृतं भक्तानुभवमेव श्लाघ्यम्।
विश्लेषस्यानन्तरं (separation) प्राप्तः संश्लेषः (union) अत्यद्भुतानुभवम्। तं अनुभवभमपि .. तस्य भक्ताय दातुं ... कृष्णः तत्रैव अन्तरीयते। तत् समये, वृत्तकीर्तनेनैव आश्वासनं साध्यम्। वृत्तकीर्तनमपि (पूर्वतन कृष्णानुभवम्) एकः भक्तः एव करोति। *विश्लेषणसमये सत्संगं अस्माकं दुःखं लघू करोति*। तन्निमित्तमपि सत्संगम् आवश्यकम्। साक्षात् श्रीमहालक्ष्म्याः अवतारमेव श्री सीता देवी। श्री सीता देवी अपि ... अशोकवने आगतः हनुमन्तं .. "इतोपि एकं दिनं अत्र स्तिथ्य .. वृत्तकीर्तनेन ..मम भारं लघु करोतु" इति प्रार्थितवती। तस्मात् *सत्संगसम्बन्धं सर्वदा सर्वस्मै परम आवश्यकम्* इति ज्ञातव्यम्।
📷🏼 *श्री गोदा देव्यै नमः*
*सर्वं श्री कृष्णार्पणमस्तु*📷🏼

Comentários