श्री गोदा देव्याः तिरुप्पावै गीता
- Jayasri Thothathri
- Dec 16, 2018
- 1 min read
Updated: Apr 26, 2019
दनुर् मासस्य विशेषः गोदा देव्याः त्रिंशत् तिरुप्पावै गीता। साक्षात् भूमा देव्याः अवतारमेव श्री गोदा देवी। तस्याः अन्येक नाम "श्री आन्डाल्"। श्री गोता देव्याः अवतार रहस्यं प्रति पञ्चमे पाशुरदिने पश्यामः चेत् इतोपि उचितं भवति।
श्री गोदा देवी गीतया वैकुण्ठं कथं प्राप्तव्यम् इति अस्मभ्यं अतीव कृपया उक्तवती। अतः "तिरुप्पावै गीता" तु श्रीवैकुण्ठ मार्गदर्शनं एव इति दृश्यते।
श्रीकृष्णकामं तु सामान्य कामं न; भक्त्याः परमा स्थितिः एव श्री कृष्णकामम्। श्री गोदा देवी तस्याः षट् वयसि अतीव कृष्ण भक्त्या तिरुप्पावै गीतां गीतवती।
प्रथमायां गीतायां श्री वैकुण्ठे स्थितं श्रीमन्नारायणं (पर रूपम्) वन्दितुं, द्वितीयां गीतायां क्षीराप्ति क्षेत्रे आदिशेषशयने स्थितं क्षीराप्तिनाथं (व्यूह रूपम्) वन्दितुं, तृतीयां गीतायां त्रिविक्रमम् (विभवावतारम्) वन्दितुं च सूचितवती।

तिरुप्पावै तनियन् :
नीळा-तुङ्ग स्तनगिरि-तटी सुप्तम् उद्बोध्य कृष्णम् पारार्थ्यम स्वं श्रुति-सत-शिरस्-सिद्धम् अध्यापयन्ती ।
स्वोच्छिष्टायां स्रजि निगळितं या बलात्कृत्य भुङ्क्ते| गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥
--- श्री परासर भट्टर्
मार्गशीर्षः मासः
श्री कृष्णः भगवद्गीतायां "मासानां मार्गशीर्षोSहम्" इति उक्तवान्। एषः मासः दनुर् मासः केशव मासः च इत्यपि दृश्यते।
मार्गशीर्षः इत्युक्ते श्रेष्टं वैकुण्ठं गन्तुं मार्गानां, उत्तमः मार्गः, एषः मासः इति; यतः उत्तरायण कालं वैकुण्ठं गन्तुम्, अर्च्चिराति मार्गस्य द्वारम् इव अस्ति। उत्तरायण कालात् पूर्वं दक्षिण कालस्य अन्तिम मासः मार्गशीर्षः मासः अस्ति।
सामान्यत: ब्रम्हमुहूर्तः अनुष्ठानं पूजां कर्तुं च उचितः समयः इति दृश्यते। मार्गशीर्षः मासः तु देवानां ब्रम्हमूहूर्तः। अतः एतस्मिन् मासे कृतं देवपूजनं बहु श्रेष्ठं इति दृश्यते।
Comments