
Maneesha Panchagam
रचन: आदि शङ्कराचार्य
सत्याचार्यस्य गमने कदाचिन् मुक्ति दायकम्,
काशी क्षेत्रम् प्रति सह गौर्या मार्गे तु शंकरम्,
अंत्य वेषधरम् दृष्ट्वा गच्छ गच्छेति चा ब्रवीत्
शंकरस्योपि चंडालः तम् पुनः प्राह शंकरम्
अन्नमयाद् अन्नमयम् अथवा चैतन्यमेव चैतन्यात्
यतिवर दूरीकर्तुम् वांछसि किम् ब्रूहि गच्छ गच्छेति
प्रत्यग्वस्तुनि निस्तरन्ग सहजानन्दावबोधाम्बुधौ विप्रो
अयम् श्वपचोयमित्यपि महान् को अयम् विभेद भ्रमः?
किम् गंगाम्बुधि बिंबितेम्बर मणौ चंडाल वीधी पयः
पूरेवा अन्तरमस्ति कांचनघटी मृत्कुम्भयोर्वांबरे?
जाग्रत्स्वप्न सुषुत्पिषु स्फुटतरा या संविदुज्जृम्भते
या ब्रह्मादि पिपीलिकान्त तनुषु प्रोता जगत्साक्षिणी,
सैवाहं न च दृश्य वस्त्विति दृढ प्रज्ञापि यस्यास्तिचे
च्चण्डालोस्तु स तु द्विजोस्तु गुरुरित्येषा मनीषा मम
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं
सर्वं चैतदविद्यया त्रिगुणयाशेषं मया कल्पितम्
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले
चण्डालोस्तु स तु द्विजोस्तु गुरुरित्येषा मनीषा मम
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचागुरोरः
नित्यं ब्रह्म निरन्तरं विमृशता निर्व्याज शान्तात्मना,
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते
यद्भासा हृदयाक्षदेहविषया भान्ति स्वतो चेतनाः,
ताम् भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ||
यत्सौख्याम्बुधि लेशलेशत इमे शक्रादयो निर्वृता
यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः
यस्मिन्नित्य सुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद्
यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥
दासस्तेहं देहदृष्ट्यास्मि शंभो
जातस्तेशो जीवदृष्ट्या त्रिदृष्टे
सर्वस्यात्मन् अत्मदृट्या त्वमेव
त्वेवं मे धीर्निश्चिता सर्वशास्त्रैः ॥